|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.249. अध्यायः 249
Mahabharata - Vana Parva - Chapter Topics
दुर्योधनेन कर्णंप्रति युद्धे सानुजस्य स्वस्य गन्धर्वैर्वन्धनस्य युधिष्ठिरचोदनया मीमादिमिर्गन्धर्वाणां रणे पराजयस्य च कथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
दुर्योधन उवाच। 3-249-0x(2613)(25598)
अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः।
जानासि त्वं जिताञ्शत्रून्गन्धर्वां स्तेजसा मया ॥ 3-249-1(25599)
आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम।
मया सह महाबाहो कृतश्चोभयतः क्षयः ॥ 3-249-2(25600)
मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः।
तदा नो न समं युद्धमभवत्खेचरैः सह ॥ 3-249-3(25601)
पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च।
सभृत्यामात्यपुत्राश्च सदारबलवाहनाः।
उच्चैराकाशमार्गेण ह्रियमाणाः सुदुःखिताः ॥ 3-249-4(25602)
अथ नः सैनिकाः केचिदमात्याश्च महारथाः।
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ॥ 3-249-5(25603)
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः।
सामात्यदारो ह्रियते गन्धर्वैर्दिवमाश्रितैः ॥ 3-249-6(25604)
तं मोक्षयत भद्रं वः सहदारं नराधिपम्।
परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः।
`इत्यब्रुवन्रणआन्मुक्ता धर्मराजमुपागताः' ॥ 3-249-7(25605)
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा।
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ॥ 3-249-8(25606)
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः।
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ॥ 3-249-9(25607)
यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि।
`आकाशचारिणो वीरा नदन्तो जलदा इव' ॥ 3-249-10(25608)
ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ।
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ॥ 3-249-11(25609)
अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम्।
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ॥ 3-249-12(25610)
ततः समन्तात्पश्यामः शरजालेन वेष्टितम्।
अमानुषाणि चास्त्राणि प्रयुञ्जानं घनंजयम् ॥ 3-249-13(25611)
समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः।
धनंजयसखाऽऽत्मानं दर्शयामास वै तदा ॥ 3-249-14(25612)
चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम्।
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ॥ 3-249-15(25613)
ते समेत्य तथाऽन्योन्यं सन्नाहान्विप्रमुच्य च।
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ॥ 3-249-16(25614)
`परस्परं समागम्य प्रीत्या परमया युतौ'।
अपूजयेतामन्योन्यं चित्रसेनधनंजयौ ॥ 3-249-17(25615)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-249-1 नाभ्यसूयामि दोषवदिति न मन्ये ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|